Friday, April 17, 2009

प्रमुखाः गद्यकाराः


दण्डीः -  ततश्च गद्यकाव्यस्य स्वर्णयुगः प्रारभते। सर्वप्रथमं दण्डिनो दशकुमारचरितम्, सुबन्धोर्वासवदता, बाणस्य हर्षचरितं-कादम्बरी चेति गद्यकाव्यस्य रत्नानि समुपलभ्यन्ते। दण्डी-सुबन्धु-बाणभट्ट गद्यकवीनां बृहत्त्रयीरुपेणाभिनन्द्यन्ते। संस्कृत-गद्यकाव्यस्य परिष्कृतं प्राञ्जलं विशदं च रुपं दण्डिनो दशकुमारचरिताद् दृष्टिपथम् उपायति। दण्डिनो गद्यं सरस्वत्या विलासमणिदर्पणरुपेण मधुराविजय-महाकाव्य-रचयित्र्या गङ्गादेव्या स्तुयते-
"आचार्यदण्डिनो वाचामाचान्तामृतसम्पदाम्।
विकासो वेधसः पत्न्या विलासमणिदर्पणम्॥"
आचार्यदण्डिनः पूर्ववर्तिनः केचन गद्यग्रन्थाः प्राप्यन्ते। तत्रेमे प्राधान्येनोल्लेखमर्हन्ति-आन्ध्रभृत्यनृपाणां संरक्षणे प्रणीतानि गद्यकाव्यानि वर्तन्ते-
१. श्रीपालितकृता तरङ्गवती, अज्ञातकविकृता मनोवती शातकर्णीहरणं च।
२. धनपालेन तिलकमञ्जर्याम्,  अभिनन्दने रामचरिते च श्रीपालिकृता तरङ्गवती प्रशस्यते।
३. जल्हणकृत-सूक्तिमुक्तावल्यां कुलशेखरवर्म-कृता आश्चर्यमञ्जरी, शीलाभट्टारिकायाश्च  पाञ्चालीरीत्यां विलिखिता गद्यकृतिश्च निर्दिश्येते।
४. बाणेन हर्षचरितभूमिकायां भट्टारहरिचन्द्रस्य गद्यकाव्यं प्रशस्यते।

बाणभट्टः - महाकवेर्बाणभट्टस्य गद्यकाव्यरत्नद्वयम् आसाद्यते- हर्षचरितं कादम्बरी च। तत्र हर्षचरिते ’ओजः समासभूयस्त्वम्०’ इत्यानुसृत्य दीर्घसमासयुक्ता पदावली पाण्डित्यदर्शनं च प्रतिपदं निरीक्ष्यते। कादम्बरी सरस-मधुर-पदावलीसंगीता, रुचिरभावाभिरभ्या, सरसा सालंकृतिः तरुणीव विदग्धमनोमोहिनी गद्यकाव्यसर्वस्वभूता च। कादम्बर्या बाणः स्वपाण्डित्यप्रकर्ष सहृदयहृदयाह्लादजननरुपेण विनियुड़्क्ते। सीतामधुरं व्यञ्जनमिव सर्वथा सर्वतश्च मधुरात्मिकैव कादम्बरी। अतएवोच्यते- ’कादम्बरीरसज्ञानाम् आहारोऽपि न रोचते’।

सुबन्धुः - सुबन्धुकृत-वासवदत्तायाम् अलंकृता श्लेषबहुला शैली दृग्गोचरतामायाता। "ओजःसमासभूयस्त्वमेतद् गद्यस्य जीवितम्" इति सर्वात्मरुपेण सुबन्धौ उपलभ्यते। कविः स्वकाव्यप्रशंसायामुल्लिखति—प्रत्यक्षरश्लेषमयप्रबन्धविन्यासवैदग्ध्यनिधिर्निबन्धम् (वासव० भू०१३)

No comments:

Post a Comment