Friday, April 17, 2009

संस्कृतगद्यकाव्यस्य वैशिष्ट्यम्‌


इत्यत्र संस्कृते विरचितानां गद्यकाव्यानां विशेषता अत्र उल्लिखिताः सन्ति-

१- लोककथाधारिता
२- व्यञ्जनात्मकता
३- अलङ्कृतता
४- परिष्कृतता
५- प्राकृतिक चित्रणम्
६- काल्पनिकता
७- उदात्तता
८- भाषासौष्ठवम्

प्रमुखाः गद्यकाराः


दण्डीः -  ततश्च गद्यकाव्यस्य स्वर्णयुगः प्रारभते। सर्वप्रथमं दण्डिनो दशकुमारचरितम्, सुबन्धोर्वासवदता, बाणस्य हर्षचरितं-कादम्बरी चेति गद्यकाव्यस्य रत्नानि समुपलभ्यन्ते। दण्डी-सुबन्धु-बाणभट्ट गद्यकवीनां बृहत्त्रयीरुपेणाभिनन्द्यन्ते। संस्कृत-गद्यकाव्यस्य परिष्कृतं प्राञ्जलं विशदं च रुपं दण्डिनो दशकुमारचरिताद् दृष्टिपथम् उपायति। दण्डिनो गद्यं सरस्वत्या विलासमणिदर्पणरुपेण मधुराविजय-महाकाव्य-रचयित्र्या गङ्गादेव्या स्तुयते-
"आचार्यदण्डिनो वाचामाचान्तामृतसम्पदाम्।
विकासो वेधसः पत्न्या विलासमणिदर्पणम्॥"
आचार्यदण्डिनः पूर्ववर्तिनः केचन गद्यग्रन्थाः प्राप्यन्ते। तत्रेमे प्राधान्येनोल्लेखमर्हन्ति-आन्ध्रभृत्यनृपाणां संरक्षणे प्रणीतानि गद्यकाव्यानि वर्तन्ते-
१. श्रीपालितकृता तरङ्गवती, अज्ञातकविकृता मनोवती शातकर्णीहरणं च।
२. धनपालेन तिलकमञ्जर्याम्,  अभिनन्दने रामचरिते च श्रीपालिकृता तरङ्गवती प्रशस्यते।
३. जल्हणकृत-सूक्तिमुक्तावल्यां कुलशेखरवर्म-कृता आश्चर्यमञ्जरी, शीलाभट्टारिकायाश्च  पाञ्चालीरीत्यां विलिखिता गद्यकृतिश्च निर्दिश्येते।
४. बाणेन हर्षचरितभूमिकायां भट्टारहरिचन्द्रस्य गद्यकाव्यं प्रशस्यते।

बाणभट्टः - महाकवेर्बाणभट्टस्य गद्यकाव्यरत्नद्वयम् आसाद्यते- हर्षचरितं कादम्बरी च। तत्र हर्षचरिते ’ओजः समासभूयस्त्वम्०’ इत्यानुसृत्य दीर्घसमासयुक्ता पदावली पाण्डित्यदर्शनं च प्रतिपदं निरीक्ष्यते। कादम्बरी सरस-मधुर-पदावलीसंगीता, रुचिरभावाभिरभ्या, सरसा सालंकृतिः तरुणीव विदग्धमनोमोहिनी गद्यकाव्यसर्वस्वभूता च। कादम्बर्या बाणः स्वपाण्डित्यप्रकर्ष सहृदयहृदयाह्लादजननरुपेण विनियुड़्क्ते। सीतामधुरं व्यञ्जनमिव सर्वथा सर्वतश्च मधुरात्मिकैव कादम्बरी। अतएवोच्यते- ’कादम्बरीरसज्ञानाम् आहारोऽपि न रोचते’।

सुबन्धुः - सुबन्धुकृत-वासवदत्तायाम् अलंकृता श्लेषबहुला शैली दृग्गोचरतामायाता। "ओजःसमासभूयस्त्वमेतद् गद्यस्य जीवितम्" इति सर्वात्मरुपेण सुबन्धौ उपलभ्यते। कविः स्वकाव्यप्रशंसायामुल्लिखति—प्रत्यक्षरश्लेषमयप्रबन्धविन्यासवैदग्ध्यनिधिर्निबन्धम् (वासव० भू०१३)

गद्यस्य उत्पत्तिविकासौ च


संस्कृते गद्यप्रयोगः वैदिक-कालात् एव। कृष्णयजुर्वेद-बाह्मण-उपनिषद् इत्यादयः गद्येषु एव। तदनन्तरं गद्यप्रयोगः महाभारते अपि परिलक्ष्यते। यास्कमुनिना विरचितं (७००ई०पू०) निरुक्तं गद्ये एव। पतञ्जलिना (१५००ई०पू०) लिखितं महाभाष्यमपि गद्ये एव।

पद्यापेक्षया गद्यश्रेष्ठत्वं प्रदर्शनाय प्राचीनकालात्‌ एव उक्तिमिदं प्रचलितम्- "गद्यं कवीनां निकषं वदन्तिः" । सुभाषितेनानेन ज्ञायते यत् पद्यकाव्यापेक्षया गद्यकाव्यविरचनं दुष्करतरम्। गद्य-काव्येऽपि काव्यलक्षणं सर्वथा प्रस्फुरतीति गद्यबन्धोऽपि काव्यम् उच्यते। संस्कृत साहित्ये गद्य-प्रयोगः मुख्यतया टीकासु व्याकरणग्रन्थेषु-ज्योतिष-वैज्ञानिकग्रन्थेषु च दरीदृश्यते।

काव्यमाध्यमं दृष्टया गद्यस्थानं पद्यापेक्षया गौणमस्ति तथा तस्य प्रयोगः कथासु-आख्यायिकासु-नाटकेषु च दृश्यते। संस्कृत गद्यकाव्यस्य उत्पत्तिसंबधे अस्माकं ज्ञानम् अत्यन्तं सीमितमस्ति। अस्योद्भभवं कदा केन च अभवत् इति निश्चिततया कथनं कठिनमस्ति। गद्यकाव्यस्य सर्वप्रथमदर्शनं दण्डी-सुबन्धु-बाणभट्ट-धनपाल-वादीभसिंह-वामनभट्ट-विश्वेश्वर पाण्डेय-अम्बिकादत्तव्यासानां कृतिषु पूर्णविकसितरुपे दृश्यते। अतएव ते गद्यकाव्यस्य प्रतिनिधिलेखकाः मन्यन्ते। गद्यकाव्यं संस्कृत साहित्यस्य एका परमा प्राचीना शाखा अस्ति।

वेदांगसंबद्धाः प्रातिशाख्यग्रन्थाः श्रौत-गृह्य-धर्म-शुल्बेति-चतुर्विधाः कल्पग्रन्थाः, निरुक्तं च गद्यात्मक सूत्रपद्धत्या निबद्धाः सन्ति। भारतीय षड्दर्शनं सूत्रात्मकं-विकासमलभेत्‌। पाणिनिकृता अष्टाध्यायी सूत्रात्मकगद्यशैल्या आदर्शीभूता। पातञ्जलिमहाभाष्ये साहित्यिकगद्य-ग्रन्थानामप्युल्लेखम्‌ उपलभ्यते। ततश्च गुणाढ्य (७८ई०) कृता बृहत्कथा बहुचर्चिता-गद्यकाव्योपजीव्यत्वेन चाङ्गीक्रियते।

गद्यस्य स्वरूपम्


विश्वनाथेन साहित्यदर्पणे काव्यम् द्विधा विभज्यते-’दृश्यं श्रव्यं च’। दृश्ये नाटकादिकम् श्रव्ये काव्यादिकम् च। श्रव्यस्यापि भेद द्वयम्- पद्यकाव्यम् गद्यकाव्यम् चेति। तत्र गद्यस्य लक्षणम् निर्दिश्यते- ’वृत्त बन्धोज्झितं गद्यम्।’ अर्थात् यत्र पद्य रचनाया प्रतिबन्धो न स्यात् तत्र गद्यम्। अग्निपुराणे गद्यलक्षणम् उच्यते-’अपादः पदसन्तानो गद्यं तदपि कथ्यते’। दण्डिनापि काव्यादर्शे "अपादः पदसन्तानो गद्यम्" इत्युच्यते।

श्रीगणेशः

ॐ विघ्नेश्वराय वरदाय सुरप्रियाय

लम्बोदराय सकलाय जगद्धिताय

नागाननाय श्रुतियज्ञ विभूषिताय

गौरीसुताय गणनाथ नमो नमस्ते।


अस्तु, इदं मम द्वितीयं वृत्तपत्रं। अस्मिन् वृत्तपत्रेऽहं संस्कृत भाषायां गद्यलेखनस्य स्थिति का, प्रारम्भं कदा केन च अभवत्, साम्प्रतिके समये अस्य स्थितिः कीदृशी इत्यादि विषयान् अधिकृत्य कतिपयानि अनुच्छेदानि लेखयिष्यामि। भवन्तः सर्वेषां पाठकवर्याणां टिप्पण्यात्मकः स्नेहः अपेक्षितः।

Monday, April 6, 2009

श्री गणेशाय नम:


गजाननं भूतगणाधिसेवितं कपित्थजम्बूफलचारूभक्षणम् ।
उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वर पादपङ्कजम् ॥